!! मंत्रात्मकश्लोकाः !!
अनसूयात्रिसंभूतो दत्तात्रेयो दिगम्बरः।।
स्मर्तृगामी स्वभक्तानामुद्धर्ता भव
संकटात्।।१।।
दरिद्रविप्रगेहे यः शाकं भुक्त्वोत्तमश्र
ियम्।।
ददौ श्रीदेवदत्तः स दारिद्र्याच्छ्र
ीप्रदोsवतु।।२।।
दूरीकृत्य पिशाचार्तिं जीवयित्वा मृतं
सुतम्।।
योsभूदभीष्टदः पातु स नः संतानवृद्धिकृत्
।।३।।
जीवयामास भर्तारं मृतं
सत्या हि मृत्युहा।।
मृत्युञ्जयः स योगीन्द्रः सौभाग्यं मे
प्रयच्छतु।।४।।
अत्रेरात्मप्रदानेन यो मुक्तो भगवानृणात्।।
दत्तात्रेयं तमीशानं नमामि ऋणमुक्तये।।५।।
जपेच्छ्लोकमिमं देवपित्रर्षिपुंनृणापहम्।।
सो नृणो दत्तकृपया परब्रह्माधिगच्छति।।
६।।
अत्रिपुत्रो महातेजो दत्तात्रेयो महामुनिः।।
तस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते।।७।।
नमस्ते भगवन्देव दत्तात्रेय जगत्प्रभो।।
सर्वबाधाप्रशमनं कुरु शांतिं प्रयच्छ मे।।८।।
अनसूयासुतं श्रीशं जनपातकनाशनम्।।
दिगंबरं नमो नित्यं तुभ्यं मे वरदो भव।।९।।
श्रीविष्णोरवतारो%यं
दत्तात्रेयो दिगंबरः।।
मालाकमंडलूच्छूलडमरूशङ्खचक्रधृक्।।१०।।
नमस्ते शारदे देवि सरस्वति मतिप्रदे।।
वस त्वं मम जिह्वाग्रे सर्वविद्याप्रदा भव।।
११।।
दत्तात्रेयं प्रपद्ये शरणमनुदिनं दीनबंधुं मुकुंदम्।
नैर्गुण्यं संनिविष्टं पथि परमपदं बोधयंतं
मुनीनाम्।।
भस्माभ्यङ्गं जटाभिः सुललितमुकुटं दिक्पटं
दिव्यरूपम्।
सह्याद्रौ नित्यवासं प्रमुदितममलं सद्गुरुं
चारुशीलम्।।१२।।
इति श्री. प. प. श्री वासुदेवानन्दसरस
्वतीविरचिताः मन्त्रश्लोकाः।
No comments:
Post a Comment