सरस्वती त्वियं दृष्ट्वा वीणापुस्तक धारिणी ।
हंसवाह समायुक्ता विद्यादानकरी मम ॥ १॥
प्रथमं भारतीनाम द्वितीयंच सरस्वती ।
तृतीयं शारदादेवि चतुर्थं हंसवाहिनि ॥ २॥
पंचमं जगतीख्यातं षष्ठं वागीश्वरी तथा ।
कौमारी सप्तमं प्रोक्तं अष्टमं ब्रह्मचारिणि ॥ ३॥
नवमं बुद्धिधात्रीच दशमं वरदायिनि ।
एकादशं क्षुद्रघंटा द्वादशं भुवनेश्वरि ॥ ४॥
ब्राह्मे द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः ।
जिह्वाग्रे वसते नित्यं ब्रह्मरूपा सरस्वती ॥ ५॥
॥इति श्री सरस्वती द्वादशनाम स्तोत्रं संपूर्णम॥
No comments:
Post a Comment